Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 थिस्सलुनीकियों 3:4

सत्यवेदः। Sanskrit NT in Devanagari

वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

पश्यत, घटनातः पूर्व्वं युष्मान् वार्त्ताम् अवादिषम्।

पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।

किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।

तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।

हे भ्रातरः, ख्रीष्टाश्रितवत्य ईश्वरस्य याः समित्यो यिहूदादेशे सन्ति यूयं तासाम् अनुकारिणोऽभवत, तद्भुक्ता लोकाश्च यद्वद् यिहूदिलोकेभ्यस्तद्वद् यूयमपि स्वजातीयलोकेभ्यो दुःखम् अलभध्वं।

अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।

यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?

यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्