Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 थिस्सलुनीकियों 3:11

सत्यवेदः। Sanskrit NT in Devanagari

अस्माकं तातेनेश्वरेण प्रभुना यीशुख्रीष्टेन च युष्मत्समीपगमनायास्माकं पन्था सुगमः क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

28 अन्तरसन्दर्भाः  

यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;

तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।

तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।

तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl

"परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥

जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।

हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।

तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।

अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः

युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।

अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो

अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां।

अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।

यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।

शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।

अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्

शान्तिदाता प्रभुः सर्व्वत्र सर्व्वथा युष्मभ्यं शान्तिं देयात्। प्रभु र्युष्माकं सर्व्वेषां सङ्गी भूयात्।

ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।

पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।

अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्