Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 थिस्सलुनीकियों 2:13

सत्यवेदः। Sanskrit NT in Devanagari

यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

41 अन्तरसन्दर्भाः  

यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।

यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति।

किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।

अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।

दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।

स प्रत्युवाच; ये जना ईश्वरस्य कथां श्रुत्वा तदनुरूपमाचरन्ति तएव मम माता भ्रातरश्च।

इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः।

तव सत्यकथया तान् पवित्रीकुरु तव वाक्यमेव सत्यं।

तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।

इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।

तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।

ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।

तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।

तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।

ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः

इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः।

अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।

वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।

तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।

सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।

ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।

यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्।

तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।

यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।

किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।

युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।

युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि।

तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्