Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 थिस्सलुनीकियों 1:10

सत्यवेदः। Sanskrit NT in Devanagari

मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं ते लोकाः स्वयम् अस्मान् ज्ञापयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

46 अन्तरसन्दर्भाः  

यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।

अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।

अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?

यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।

ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?

हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।

यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।

किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।

अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।

पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।

किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।

तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।

पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।

वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।

यदि वयं विश्वसामस्तर्ह्यस्माकमपि सएव विश्वासः पुण्यमिव गणयिष्यते।

अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?

ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे।

स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।

तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः।

अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।

यथा काचिन्माता स्वकीयशिशून् पालयति तथा वयमपि युष्मान् काङ्क्षमाणा

यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,

ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।

परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।

किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।

यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।

अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो

तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।

यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।

तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?

अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं।

अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।

पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्