Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 पतरस 4:6

सत्यवेदः। Sanskrit NT in Devanagari

यतो हेतो र्ये मृतास्तेषां यत् मानवोद्देश्यः शारीरिकविचारः किन्त्वीश्वरोद्देश्यम् आत्मिकजीवनं भवत् तदर्थं तेषामपि सन्निधौ सुसमाचारः प्रकाशितोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

14 अन्तरसन्दर्भाः  

तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।

जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।

अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये।

यदि वयम् आत्मना जीवामस्तर्ह्यात्मिकाचारोऽस्माभिः कर्त्तव्यः,

ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।

यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।

तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्।

अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्