Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 पतरस 2:20

सत्यवेदः। Sanskrit NT in Devanagari

पापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

14 अन्तरसन्दर्भाः  

ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,

अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?

ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः

ये जना युष्मासु प्रीयन्ते केवलं तेषु प्रीयमाणेषु युष्माकं किं फलं? पापिलोका अपि स्वेषु प्रीयमाणेषु प्रीयन्ते।

वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः

केवलं युष्मत्समीपे ममोपस्थितिसमये तन्नहि, किन्तु सर्व्वदैव भद्रमधि स्पर्द्धनं भद्रं।

प्रभवे यद् रोचते तत् परीक्षध्वं।

किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।

यतो ऽन्यायेन दुःखभोगकाल ईश्वरचिन्तया यत् क्लेशसहनं तदेव प्रियं।

यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।

ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्