Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 पतरस 2:1

सत्यवेदः। Sanskrit NT in Devanagari

सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

50 अन्तरसन्दर्भाः  

रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्।

तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।

तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।

हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।

किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।

वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।

तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।

स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।

अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।

अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः

हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।

अतः पुरातनकिण्वेनार्थतो दुष्टताजिघांसारूपेण किण्वेन तन्नहि किन्तु सारल्यसत्यत्वरूपया किण्वशून्यतयास्माभिरुत्सवः कर्त्तव्यः।

अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।

यतोऽस्माकम् आदेशो भ्रान्तेरशुचिभावाद् वोत्पन्नः प्रवञ्चनायुक्तो वा न भवति।

अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।

प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः

अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।

अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।

किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।

हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।

यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?

हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।

यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।

स किमपि पापं न कृतवान् तस्य वदने कापि छलस्य कथा नासीत्।

अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।

इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।

यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।

तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्