Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 योहन 4:2

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरीयो य आत्मा स युष्माभिरनेन परिचीयतां, यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना स्वीक्रियते स ईश्वरीयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।

अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।

स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः।

यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।

यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।

किन्तु यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना नाङ्गीक्रियते स ईश्वरीयो नहि किन्तु ख्रीष्टारेरात्मा, तेन चागन्तव्यमिति युष्माभिः श्रुतं, स चेदानीमपि जगति वर्त्तते।

यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।

यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्