Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 कुरिन्थियों 6:1

सत्यवेदः। Sanskrit NT in Devanagari

युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।

यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।

तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।

यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।

पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।

हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।

समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्?

अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्