Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 कुरिन्थियों 4:10

सत्यवेदः। Sanskrit NT in Devanagari

ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

38 अन्तरसन्दर्भाः  

तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।

यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।

यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।

ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।

यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।

किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्।

तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।

तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः।

मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।

ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।

वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,

यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।

अतएव यः कश्चिद् सुस्थिरंमन्यः स यन्न पतेत् तत्र सावधानो भवतु।

प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।

अपरञ्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं।

कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।

युष्मान् कठिनभक्ष्यं न भोजयन् दुग्धम् अपाययं यतो यूयं भक्ष्यं ग्रहीतुं तदा नाशक्नुत इदानीमपि न शक्नुथ, यतो हेतोरधुनापि शारीरिकाचारिण आध्वे।

इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।

तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।

बुद्धिमन्तो यूयं सुखेन निर्ब्बोधानाम् आचारं सहध्वे।

येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति?

वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।

इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः।

मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।

अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।

यदि ख्रीष्टस्य नामहेतुना युष्माकं निन्दा भवति तर्हि यूयं धन्या यतो गौरवदायक ईश्वरस्यात्मा युष्मास्वधितिष्ठति तेषां मध्ये स निन्द्यते किन्तु युष्मन्मध्ये प्रशंस्यते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्