Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 कुरिन्थियों 13:6

सत्यवेदः। Sanskrit NT in Devanagari

अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

27 अन्तरसन्दर्भाः  

यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।

तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः।

ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।

किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।

यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्

यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।

यतो यावन्तो मानवाः सत्यधर्म्मे न विश्वस्याधर्म्मेण तुष्यन्ति तैः सर्व्वै र्दण्डभाजनै र्भवितव्यं।

वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्