Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 कुरिन्थियों 10:4

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

23 अन्तरसन्दर्भाः  

ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।

किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।

अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।

यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।

यत एतानि छायास्वरूपाणि किन्तु सत्या मूर्त्तिः ख्रीष्टः।

व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।

आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्