Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



1 कुरिन्थियों 1:29

सत्यवेदः। Sanskrit NT in Devanagari

तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते।

व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।

तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।

स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।

अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।

अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?

युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते।

तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्