तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
मत्ती 5:1 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স জননিৱহং নিৰীক্ষ্য ভূধৰোপৰি ৱ্ৰজিৎৱা সমুপৱিৱেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স জননিৱহং নিরীক্ষ্য ভূধরোপরি ৱ্রজিৎৱা সমুপৱিৱেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ ဇနနိဝဟံ နိရီက္ၐျ ဘူဓရောပရိ ဝြဇိတွာ သမုပဝိဝေၑ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ જનનિવહં નિરીક્ષ્ય ભૂધરોપરિ વ્રજિત્વા સમુપવિવેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza| |
तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश।
एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।
अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।
पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।
एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।