ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
मत्ती 27:2 - सत्यवेदः। Sanskrit NT in Devanagari तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তং বদ্ৱ্ৱা নীৎৱা পন্তীযপীলাতাখ্যাধিপে সমৰ্পযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তং বদ্ৱ্ৱা নীৎৱা পন্তীযপীলাতাখ্যাধিপে সমর্পযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တံ ဗဒွွာ နီတွာ ပန္တီယပီလာတာချာဓိပေ သမရ္ပယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taM badvvA nItvA pantIyapIlAtAkhyAdhipE samarpayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તં બદ્વ્વા નીત્વા પન્તીયપીલાતાખ્યાધિપે સમર્પયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taM badvvA nItvA pantIyapIlAtAkhyAdhipe samarpayAmAsuH| |
ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
अपरञ्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।
अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
पूर्व्वं हेरोद्पीलातयोः परस्परं वैरभाव आसीत् किन्तु तद्दिने द्वयो र्मेलनं जातम्।
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
अनन्तरं हेरोदि तं बहिरानायितुं उद्यते सति तस्यां रात्रौ पितरो रक्षकद्वयमध्यस्थाने शृङ्खलद्वयेन बद्ध्वः सन् निद्रित आसीत्, दौवारिकाश्च कारायाः सम्मुखे तिष्ठनतो द्वारम् अरक्षिषुः।
स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?
पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?
इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।
किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।
एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।
यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो
स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्।
अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि।
तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।