तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।
मत्ती 14:36 - सत्यवेदः। Sanskrit NT in Devanagari अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তদীযৱসনস্য গ্ৰন্থিমাত্ৰং স্প্ৰষ্টুং ৱিনীয যাৱন্তো জনাস্তৎ স্পৰ্শং চক্ৰিৰে, তে সৰ্ৱ্ৱএৱ নিৰামযা বভূৱুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তদীযৱসনস্য গ্রন্থিমাত্রং স্প্রষ্টুং ৱিনীয যাৱন্তো জনাস্তৎ স্পর্শং চক্রিরে, তে সর্ৱ্ৱএৱ নিরামযা বভূৱুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တဒီယဝသနသျ ဂြန္ထိမာတြံ သ္ပြၐ္ဋုံ ဝိနီယ ယာဝန္တော ဇနာသ္တတ် သ္ပရ္ၑံ စကြိရေ, တေ သရွွဧဝ နိရာမယာ ဗဘူဝုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તદીયવસનસ્ય ગ્રન્થિમાત્રં સ્પ્રષ્ટું વિનીય યાવન્તો જનાસ્તત્ સ્પર્શં ચક્રિરે, તે સર્વ્વએવ નિરામયા બભૂવુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvanto janAstat sparzaM cakrire, te sarvvaeva nirAmayA babhUvuH| |
तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।
केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।
तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।
अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।
पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।
अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?
इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।