आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
मत्ती 11:5 - सत्यवेदः। Sanskrit NT in Devanagari एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি যদ্যদ্ যুৱাং শৃণুথঃ পশ্যথশ্চ গৎৱা তদ্ৱাৰ্ত্তাং যোহনং গদতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি যদ্যদ্ যুৱাং শৃণুথঃ পশ্যথশ্চ গৎৱা তদ্ৱার্ত্তাং যোহনং গদতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ ယဒျဒ် ယုဝါံ ၑၖဏုထး ပၑျထၑ္စ ဂတွာ တဒွါရ္တ္တာံ ယောဟနံ ဂဒတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ યદ્યદ્ યુવાં શૃણુથઃ પશ્યથશ્ચ ગત્વા તદ્વાર્ત્તાં યોહનં ગદતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM| |
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,
अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।
तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।
अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।
किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ।
अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं।
यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।
किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।
पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।
हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।