अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
मार्क 3:17 - सत्यवेदः। Sanskrit NT in Devanagari याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যাকূব্ তস্য ভ্ৰাতা যোহন্ চ আন্দ্ৰিযঃ ফিলিপো বৰ্থলমযঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যাকূব্ তস্য ভ্রাতা যোহন্ চ আন্দ্রিযঃ ফিলিপো বর্থলমযঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယာကူဗ် တသျ ဘြာတာ ယောဟန် စ အာန္ဒြိယး ဖိလိပေါ ဗရ္ထလမယး, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yAkUb tasya bhrAtA yOhan ca AndriyaH philipO barthalamayaH, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યાકૂબ્ તસ્ય ભ્રાતા યોહન્ ચ આન્દ્રિયઃ ફિલિપો બર્થલમયઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yAkUb tasya bhrAtA yohan ca AndriyaH philipo barthalamayaH, |
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
अतएव याकूब्योहनौ तस्य शिष्यौ तद् दृष्ट्वा जगदतुः, हे प्रभो एलियो यथा चकार तथा वयमपि किं गगणाद् आगन्तुम् एतान् भस्मीकर्त्तुञ्च वह्निमाज्ञापयामः? भवान् किमिच्छति?
शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।