किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
लूका 6:28 - सत्यवेदः। Sanskrit NT in Devanagari ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে চ যুষ্মান্ শপন্তি তেভ্য আশিষং দত্ত যে চ যুষ্মান্ অৱমন্যন্তে তেষাং মঙ্গলং প্ৰাৰ্থযধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে চ যুষ্মান্ শপন্তি তেভ্য আশিষং দত্ত যে চ যুষ্মান্ অৱমন্যন্তে তেষাং মঙ্গলং প্রার্থযধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ စ ယုၐ္မာန် ၑပန္တိ တေဘျ အာၑိၐံ ဒတ္တ ယေ စ ယုၐ္မာန် အဝမနျန္တေ တေၐာံ မင်္ဂလံ ပြာရ္ထယဓွံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAn avamanyantE tESAM maggalaM prArthayadhvaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે ચ યુષ્માન્ શપન્તિ તેભ્ય આશિષં દત્ત યે ચ યુષ્માન્ અવમન્યન્તે તેષાં મઙ્ગલં પ્રાર્થયધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye ca yuSmAn zapanti tebhya AziSaM datta ye ca yuSmAn avamanyante teSAM maGgalaM prArthayadhvaM| |
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।
हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।
अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।
अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।
तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।
कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।
अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।