लूका 4:35 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুস্তং তৰ্জযিৎৱাৱদৎ মৌনী ভৱ ইতো বহিৰ্ভৱ; ততঃ সোমেধ্যভূতস্তং মধ্যস্থানে পাতযিৎৱা কিঞ্চিদপ্যহিংসিৎৱা তস্মাদ্ বহিৰ্গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুস্তং তর্জযিৎৱাৱদৎ মৌনী ভৱ ইতো বহির্ভৱ; ততঃ সোমেধ্যভূতস্তং মধ্যস্থানে পাতযিৎৱা কিঞ্চিদপ্যহিংসিৎৱা তস্মাদ্ বহির্গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုသ္တံ တရ္ဇယိတွာဝဒတ် မော်နီ ဘဝ ဣတော ဗဟိရ္ဘဝ; တတး သောမေဓျဘူတသ္တံ မဓျသ္ထာနေ ပါတယိတွာ ကိဉ္စိဒပျဟိံသိတွာ တသ္မာဒ် ဗဟိရ္ဂတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzustaM tarjayitvAvadat maunI bhava itO bahirbhava; tataH sOmEdhyabhUtastaM madhyasthAnE pAtayitvA kinjcidapyahiMsitvA tasmAd bahirgatavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુસ્તં તર્જયિત્વાવદત્ મૌની ભવ ઇતો બહિર્ભવ; તતઃ સોમેધ્યભૂતસ્તં મધ્યસ્થાને પાતયિત્વા કિઞ્ચિદપ્યહિંસિત્વા તસ્માદ્ બહિર્ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA kiJcidapyahiMsitvA tasmAd bahirgatavAn| |
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।
तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।
तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।
ततः स तस्याः समीपे स्थित्वा ज्वरं तर्जयामास तेनैव तां ज्वरोऽत्याक्षीत् ततः सा तत्क्षणम् उत्थाय तान् सिषेवे।
ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।
अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।
भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।
ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।
तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥