Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 2:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ইত্থং যীশুৰ্গালীলপ্ৰদেশে আশ্চৰ্য্যকাৰ্ম্ম প্ৰাৰম্ভ নিজমহিমানং প্ৰাকাশযৎ ততঃ শিষ্যাস্তস্মিন্ ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ইত্থং যীশুর্গালীলপ্রদেশে আশ্চর্য্যকার্ম্ম প্রারম্ভ নিজমহিমানং প্রাকাশযৎ ততঃ শিষ্যাস্তস্মিন্ ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဣတ္ထံ ယီၑုရ္ဂာလီလပြဒေၑေ အာၑ္စရျျကာရ္မ္မ ပြာရမ္ဘ နိဇမဟိမာနံ ပြာကာၑယတ် တတး ၑိၐျာသ္တသ္မိန် ဝျၑွသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 ઇત્થં યીશુર્ગાલીલપ્રદેશે આશ્ચર્ય્યકાર્મ્મ પ્રારમ્ભ નિજમહિમાનં પ્રાકાશયત્ તતઃ શિષ્યાસ્તસ્મિન્ વ્યશ્વસન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:11
43 अन्तरसन्दर्भाः  

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।


मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।


परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।


ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।


ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;


किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।


ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।


स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।


यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।


यिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।


यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।


यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।


भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।


अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्।


अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं।


यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।


यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।


ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।


यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।


यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।


अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।


ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्।


तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।


तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?


किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?


स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?


वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।


क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,


य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।


ईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो ऽयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्