Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 5:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে ভ্ৰাতৰঃ, যূযং প্ৰভোৰাগমনং যাৱদ্ ধৈৰ্য্যমালম্বধ্ৱং| পশ্যত কৃষিৱলো ভূমে ৰ্বহুমূল্যং ফলং প্ৰতীক্ষমাণো যাৱৎ প্ৰথমম্ অন্তিমঞ্চ ৱৃষ্টিজলং ন প্ৰাপ্নোতি তাৱদ্ ধৈৰ্য্যম্ আলম্বতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে ভ্রাতরঃ, যূযং প্রভোরাগমনং যাৱদ্ ধৈর্য্যমালম্বধ্ৱং| পশ্যত কৃষিৱলো ভূমে র্বহুমূল্যং ফলং প্রতীক্ষমাণো যাৱৎ প্রথমম্ অন্তিমঞ্চ ৱৃষ্টিজলং ন প্রাপ্নোতি তাৱদ্ ধৈর্য্যম্ আলম্বতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ဘြာတရး, ယူယံ ပြဘောရာဂမနံ ယာဝဒ် ဓဲရျျမာလမ္ဗဓွံ၊ ပၑျတ ကၖၐိဝလော ဘူမေ ရ္ဗဟုမူလျံ ဖလံ ပြတီက္ၐမာဏော ယာဝတ် ပြထမမ် အန္တိမဉ္စ ဝၖၐ္ဋိဇလံ န ပြာပ္နောတိ တာဝဒ် ဓဲရျျမ် အာလမ္ဗတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 હે ભ્રાતરઃ, યૂયં પ્રભોરાગમનં યાવદ્ ધૈર્ય્યમાલમ્બધ્વં| પશ્યત કૃષિવલો ભૂમે ર્બહુમૂલ્યં ફલં પ્રતીક્ષમાણો યાવત્ પ્રથમમ્ અન્તિમઞ્ચ વૃષ્ટિજલં ન પ્રાપ્નોતિ તાવદ્ ધૈર્ય્યમ્ આલમ્બતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 he bhrAtaraH, yUyaM prabhorAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalo bhUme rbahumUlyaM phalaM pratIkSamANo yAvat prathamam antimaJca vRSTijalaM na prApnoti tAvad dhairyyam Alambate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:7
32 अन्तरसन्दर्भाः  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।


यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।


युष्माभिरवधीयतां, यतो युष्माभि र्यत्र न बुध्यते, तत्रैव दण्डे मनुजसुत आयास्यति।


युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?


तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।


किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।


स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ।


तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्।


अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।


वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।


ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।


यतो वयम् आत्मना विश्वासात् पुण्यलाभाशासिद्धं प्रतीक्षामहे।


सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।


यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,


अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते


यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?


अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।


अनेन प्रकारेण स सहिष्णुतां विधाय तस्याः प्रत्याशायाः फलं लब्धवान्।


हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।


हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।


कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।


वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्