Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 13:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ সালামীনগৰম্ উপস্থায তত্ৰ যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱৰস্য কথাং প্ৰাচাৰযতাং; যোহনপি তৎসহচৰোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ সালামীনগরম্ উপস্থায তত্র যিহূদীযানাং ভজনভৱনানি গৎৱেশ্ৱরস্য কথাং প্রাচারযতাং; যোহনপি তৎসহচরোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး သာလာမီနဂရမ် ဥပသ္ထာယ တတြ ယိဟူဒီယာနာံ ဘဇနဘဝနာနိ ဂတွေၑွရသျ ကထာံ ပြာစာရယတာံ; ယောဟနပိ တတ္သဟစရော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatvEzvarasya kathAM prAcArayatAM; yOhanapi tatsahacarO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તતઃ સાલામીનગરમ્ ઉપસ્થાય તત્ર યિહૂદીયાનાં ભજનભવનાનિ ગત્વેશ્વરસ્ય કથાં પ્રાચારયતાં; યોહનપિ તત્સહચરોઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:5
20 अन्तरसन्दर्भाः  

किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत;


स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।


तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।


पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।


ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।


तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ।


तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,


ततः स भजनभवने यान् यिहूदीयान् भक्तलोकांश्च हट्टे च यान् अपश्यत् तैः सह प्रतिदिनं विचारितवान्।


पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।


स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।


ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।


पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्।


सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।


आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।


केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्