Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 কৈসৰিযানগৰ ইতালিযাখ্যসৈন্যান্তৰ্গতঃ কৰ্ণীলিযনামা সেনাপতিৰাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 কৈসরিযানগর ইতালিযাখ্যসৈন্যান্তর্গতঃ কর্ণীলিযনামা সেনাপতিরাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ကဲသရိယာနဂရ ဣတာလိယာချသဲနျာန္တရ္ဂတး ကရ္ဏီလိယနာမာ သေနာပတိရာသီတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 કૈસરિયાનગર ઇતાલિયાખ્યસૈન્યાન્તર્ગતઃ કર્ણીલિયનામા સેનાપતિરાસીત્

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA senApatirAsIt

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:1
19 अन्तरसन्दर्भाः  

अनन्तरम् अधिपतेः सेना अधिपते र्गृहं यीशुमानीय तस्य समीपे सेनासमूहं संजगृहुः।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


अनन्तरं सैन्यगणोऽट्टालिकाम् अर्थाद् अधिपते र्गृहं यीशुं नीत्वा सेनानिवहं समाहुयत्।


तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।


तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।


तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।


परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।


तेषु तं हन्तुमुद्यतेेषु यिरूशालम्नगरे महानुपद्रवो जात इति वार्त्तायां सहस्रसेनापतेः कर्णगोचरीभूतायां सत्यां स तत्क्षणात् सैन्यानि सेनापतिगणञ्च गृहीत्वा जवेनागतवान्।


परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।


पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?


अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं।


ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।


अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।


कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।


जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।


ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।


किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।


फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्