Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 योहन 1:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অস্মাকং শ্ৰমো যৎ পণ্ডশ্ৰমো ন ভৱেৎ কিন্তু সম্পূৰ্ণং ৱেতনমস্মাভি ৰ্লভ্যেত তদৰ্থং স্ৱানধি সাৱধানা ভৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অস্মাকং শ্রমো যৎ পণ্ডশ্রমো ন ভৱেৎ কিন্তু সম্পূর্ণং ৱেতনমস্মাভি র্লভ্যেত তদর্থং স্ৱানধি সাৱধানা ভৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အသ္မာကံ ၑြမော ယတ် ပဏ္ဍၑြမော န ဘဝေတ် ကိန္တု သမ္ပူရ္ဏံ ဝေတနမသ္မာဘိ ရ္လဘျေတ တဒရ္ထံ သွာနဓိ သာဝဓာနာ ဘဝတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 asmAkaM zramO yat paNPazramO na bhavEt kintu sampUrNaM vEtanamasmAbhi rlabhyEta tadarthaM svAnadhi sAvadhAnA bhavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અસ્માકં શ્રમો યત્ પણ્ડશ્રમો ન ભવેત્ કિન્તુ સમ્પૂર્ણં વેતનમસ્માભિ ર્લભ્યેત તદર્થં સ્વાનધિ સાવધાના ભવતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 asmAkaM zramo yat paNDazramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:8
20 अन्तरसन्दर्भाः  

तदानीं यीशुस्तानवोचत्, अवधद्व्वं, कोपि युष्मान् न भ्रमयेत्।


पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।


किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।


ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।


तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।


यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।


सर्व्वशेषेऽकालजाततुल्यो योऽहं, सोऽहमपि तस्य दर्शनं प्राप्तवान्।


यस्य निचयनरूपं कर्म्म स्थास्नु भविष्यति स वेतनं लप्स्यते।


रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते।


तर्हि युष्माकं गुरुतरो दुःखभोगः किं निष्फलो भविष्यति? कुफलयुक्तो वा किं भविष्यति?


युष्मदर्थं मया यः परिश्रमोऽकारि स विफलो जात इति युष्मानध्यहं बिभेमि।


किन्तु वयं यद्यद् अवगता आस्मस्तत्रास्माभिरेको विधिराचरितव्य एकभावै र्भवितव्यञ्च।


हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,


अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।


यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,


पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्