Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অস্মাকম্ অন্যাযেন যদীশ্ৱৰস্য ন্যাযঃ প্ৰকাশতে তৰ্হি কিং ৱদিষ্যামঃ? অহং মানুষাণাং কথামিৱ কথাং কথযামি, ঈশ্ৱৰঃ সমুচিতং দণ্ডং দত্ত্ৱা কিম্ অন্যাযী ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অস্মাকম্ অন্যাযেন যদীশ্ৱরস্য ন্যাযঃ প্রকাশতে তর্হি কিং ৱদিষ্যামঃ? অহং মানুষাণাং কথামিৱ কথাং কথযামি, ঈশ্ৱরঃ সমুচিতং দণ্ডং দত্ত্ৱা কিম্ অন্যাযী ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အသ္မာကမ် အနျာယေန ယဒီၑွရသျ နျာယး ပြကာၑတေ တရှိ ကိံ ဝဒိၐျာမး? အဟံ မာနုၐာဏာံ ကထာမိဝ ကထာံ ကထယာမိ, ဤၑွရး သမုစိတံ ဒဏ္ဍံ ဒတ္တွာ ကိမ် အနျာယီ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અસ્માકમ્ અન્યાયેન યદીશ્વરસ્ય ન્યાયઃ પ્રકાશતે તર્હિ કિં વદિષ્યામઃ? અહં માનુષાણાં કથામિવ કથાં કથયામિ, ઈશ્વરઃ સમુચિતં દણ્ડં દત્ત્વા કિમ્ અન્યાયી ભવિષ્યતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:5
32 अन्तरसन्दर्भाः  

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।


तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?


व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि?


अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?


किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।


प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।


युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।


तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।


इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?


तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;


इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।


किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते?


किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं


पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।


मया यद् भग्नं तद् यदि मया पुनर्निर्म्मीयते तर्हि मयैवात्मदोषः प्रकाश्यते।


हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।


ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।


हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्