Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং তাং প্ৰভুমাশ্ৰিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্ৰলোকাৰ্হং কুৰুধ্ৱং, যুষ্মত্তস্তস্যা য উপকাৰো ভৱিতুং শক্নোতি তং কুৰুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকাৰঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং তাং প্রভুমাশ্রিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্রলোকার্হং কুরুধ্ৱং, যুষ্মত্তস্তস্যা য উপকারো ভৱিতুং শক্নোতি তং কুরুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকারঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ တာံ ပြဘုမာၑြိတာံ ဝိဇ္ဉာယ တသျာ အာတိထျံ ပဝိတြလောကာရှံ ကုရုဓွံ, ယုၐ္မတ္တသ္တသျာ ယ ဥပကာရော ဘဝိတုံ ၑက္နောတိ တံ ကုရုဓွံ, ယသ္မာတ် တယာ ဗဟူနာံ မမ စောပကာရး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યૂયં તાં પ્રભુમાશ્રિતાં વિજ્ઞાય તસ્યા આતિથ્યં પવિત્રલોકાર્હં કુરુધ્વં, યુષ્મત્તસ્તસ્યા ય ઉપકારો ભવિતું શક્નોતિ તં કુરુધ્વં, યસ્માત્ તયા બહૂનાં મમ ચોપકારઃ કૃતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:2
25 अन्तरसन्दर्भाः  

तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी


तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।


ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।


अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।


अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं।


तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।


अपरं बहुश्रमेणास्मान् असेवत या मरियम् तामपि नमस्कारं ज्ञापयध्वं।


अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।


किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।


यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।


अतो यूयं प्रभोः कृते सम्पूर्णेनानन्देन तं गृह्लीत तादृशान् लोकांश्चादरणीयान् मन्यध्वं।


आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।


स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।


अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।


प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः


तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।


अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।


यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्