Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যতো যিৰূশালমস্থপৱিত্ৰলোকানাং মধ্যে যে দৰিদ্ৰা অৰ্থৱিশ্ৰাণনেন তানুপকৰ্ত্তুং মাকিদনিযাদেশীযা আখাযাদেশীযাশ্চ লোকা ঐচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যতো যিরূশালমস্থপৱিত্রলোকানাং মধ্যে যে দরিদ্রা অর্থৱিশ্রাণনেন তানুপকর্ত্তুং মাকিদনিযাদেশীযা আখাযাদেশীযাশ্চ লোকা ঐচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယတော ယိရူၑာလမသ္ထပဝိတြလောကာနာံ မဓျေ ယေ ဒရိဒြာ အရ္ထဝိၑြာဏနေန တာနုပကရ္တ္တုံ မာကိဒနိယာဒေၑီယာ အာခါယာဒေၑီယာၑ္စ လောကာ အဲစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 યતો યિરૂશાલમસ્થપવિત્રલોકાનાં મધ્યે યે દરિદ્રા અર્થવિશ્રાણનેન તાનુપકર્ત્તું માકિદનિયાદેશીયા આખાયાદેશીયાશ્ચ લોકા ઐચ્છન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:26
33 अन्तरसन्दर्भाः  

तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।


किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,


पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।


तस्माद् गत्वा माकिदनियान्तर्व्वर्त्ति रोमीयवसतिस्थानं यत् फिलिपीनामप्रधाननगरं तत्रोपस्थाय कतिपयदिनानि तत्र स्थितवन्तः।


रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।


गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;


हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।


साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि।


युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्।


यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।


सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।


अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।


एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।


यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।


यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।


हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।


तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः।


यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।


कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।


माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्


प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्