Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तेषां प्राचीनानाम् एको जनो मामवदत् मा रोदीः पश्य यो यिहूदावंशीयः सिंहो दायूदो मूलस्वरूपश्चास्ति स पत्रस्य तस्य सप्तमुद्राणाञ्च मोचनाय प्रमूतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তেষাং প্ৰাচীনানাম্ একো জনো মামৱদৎ মা ৰোদীঃ পশ্য যো যিহূদাৱংশীযঃ সিংহো দাযূদো মূলস্ৱৰূপশ্চাস্তি স পত্ৰস্য তস্য সপ্তমুদ্ৰাণাঞ্চ মোচনায প্ৰমূতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তেষাং প্রাচীনানাম্ একো জনো মামৱদৎ মা রোদীঃ পশ্য যো যিহূদাৱংশীযঃ সিংহো দাযূদো মূলস্ৱরূপশ্চাস্তি স পত্রস্য তস্য সপ্তমুদ্রাণাঞ্চ মোচনায প্রমূতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာမဝဒတ် မာ ရောဒီး ပၑျ ယော ယိဟူဒါဝံၑီယး သိံဟော ဒါယူဒေါ မူလသွရူပၑ္စာသ္တိ သ ပတြသျ တသျ သပ္တမုဒြာဏာဉ္စ မောစနာယ ပြမူတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 કિન્તુ તેષાં પ્રાચીનાનામ્ એકો જનો મામવદત્ મા રોદીઃ પશ્ય યો યિહૂદાવંશીયઃ સિંહો દાયૂદો મૂલસ્વરૂપશ્ચાસ્તિ સ પત્રસ્ય તસ્ય સપ્તમુદ્રાણાઞ્ચ મોચનાય પ્રમૂતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:5
25 अन्तरसन्दर्भाः  

किन्तु स व्याघुट्य ता उवाच, हे यिरूशालमो नार्य्यो युयं मदर्थं न रुदित्वा स्वार्थं स्वापत्यार्थञ्च रुदिति;


प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;


अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति।


तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।


अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः


अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥


वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।


यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।


मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।


अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।


ते चतुर्विंशतिप्राचीना अपि तस्य सिंहासनोपविष्टस्यान्तिके प्रणिनत्य तम् अनन्तजीविनं प्रणमन्ति स्वीयकिरीटांश्च सिंहासनस्यान्तिके निक्षिप्य वदन्ति,


तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।


अतो यस्तत् पत्रं विवरीतुं निरीक्षितुञ्चार्हति तादृशजनस्याभावाद् अहं बहु रोदितवान्।


अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।


ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्