Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অনন্তৰং মযা সিংহাসনানি দৃষ্টানি তত্ৰ যে জনা উপাৱিশন্ তেভ্যো ৱিচাৰভাৰো ঽদীযত; অনন্তৰং যীশোঃ সাক্ষ্যস্য কাৰণাদ্ ঈশ্ৱৰৱাক্যস্য কাৰণাচ্চ যেষাং শিৰশ্ছেদনং কৃতং পশোস্তদীযপ্ৰতিমাযা ৱা পূজা যৈ ৰ্ন কৃতা ভালে কৰে ৱা কলঙ্কো ঽপি ন ধৃতস্তেষাম্ আত্মানো ঽপি মযা দৃষ্টাঃ, তে প্ৰাপ্তজীৱনাস্তদ্ৱৰ্ষসহস্ৰং যাৱৎ খ্ৰীষ্টেন সাৰ্দ্ধং ৰাজৎৱমকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অনন্তরং মযা সিংহাসনানি দৃষ্টানি তত্র যে জনা উপাৱিশন্ তেভ্যো ৱিচারভারো ঽদীযত; অনন্তরং যীশোঃ সাক্ষ্যস্য কারণাদ্ ঈশ্ৱরৱাক্যস্য কারণাচ্চ যেষাং শিরশ্ছেদনং কৃতং পশোস্তদীযপ্রতিমাযা ৱা পূজা যৈ র্ন কৃতা ভালে করে ৱা কলঙ্কো ঽপি ন ধৃতস্তেষাম্ আত্মানো ঽপি মযা দৃষ্টাঃ, তে প্রাপ্তজীৱনাস্তদ্ৱর্ষসহস্রং যাৱৎ খ্রীষ্টেন সার্দ্ধং রাজৎৱমকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အနန္တရံ မယာ သိံဟာသနာနိ ဒၖၐ္ဋာနိ တတြ ယေ ဇနာ ဥပါဝိၑန် တေဘျော ဝိစာရဘာရော 'ဒီယတ; အနန္တရံ ယီၑေား သာက္ၐျသျ ကာရဏာဒ် ဤၑွရဝါကျသျ ကာရဏာစ္စ ယေၐာံ ၑိရၑ္ဆေဒနံ ကၖတံ ပၑောသ္တဒီယပြတိမာယာ ဝါ ပူဇာ ယဲ ရ္န ကၖတာ ဘာလေ ကရေ ဝါ ကလင်္ကော 'ပိ န ဓၖတသ္တေၐာမ် အာတ္မာနော 'ပိ မယာ ဒၖၐ္ဋား, တေ ပြာပ္တဇီဝနာသ္တဒွရ္ၐသဟသြံ ယာဝတ် ခြီၐ္ဋေန သာရ္ဒ္ဓံ ရာဇတွမကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અનન્તરં મયા સિંહાસનાનિ દૃષ્ટાનિ તત્ર યે જના ઉપાવિશન્ તેભ્યો વિચારભારો ઽદીયત; અનન્તરં યીશોઃ સાક્ષ્યસ્ય કારણાદ્ ઈશ્વરવાક્યસ્ય કારણાચ્ચ યેષાં શિરશ્છેદનં કૃતં પશોસ્તદીયપ્રતિમાયા વા પૂજા યૈ ર્ન કૃતા ભાલે કરે વા કલઙ્કો ઽપિ ન ધૃતસ્તેષામ્ આત્માનો ઽપિ મયા દૃષ્ટાઃ, તે પ્રાપ્તજીવનાસ્તદ્વર્ષસહસ્રં યાવત્ ખ્રીષ્ટેન સાર્દ્ધં રાજત્વમકુર્વ્વન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:4
40 अन्तरसन्दर्भाः  

ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।


बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।


किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।


तत्क्षणं राजा घातकं प्रेष्य तस्य शिर आनेतुमादिष्टवान्।


अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?


सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।


तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।


तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।


कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।


तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?


अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।


यदि वयं तम् अनङ्गीकुर्म्मस्तर्हि सो ऽस्मानप्यनङ्गीकरिष्यति।


स चेश्वरस्य वाक्ये ख्रीष्टस्य साक्ष्ये च यद्यद् दृष्टवान् तस्य प्रमाणं दत्तवान्।


युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।


तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।


अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च।


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।


वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,


त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते।


यो जनो जयति शेषपर्य्यन्तं मम क्रियाः पालयति च तस्मा अहम् अन्यजातीयानाम् आधिपत्यं दास्यामि;


एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।


तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।


अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।


तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।


अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।


ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्