Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৱ ক্ৰিযা মম গোচৰাঃ, যত্ৰ শযতানস্য সিংহাসনং তত্ৰৈৱ ৎৱং ৱসসি তদপি জানামি| ৎৱং মম নাম ধাৰযসি মদ্ভক্তেৰস্ৱীকাৰস্ত্ৱযা ন কৃতো মম ৱিশ্ৱাস্যসাক্ষিণ আন্তিপাঃ সমযে ঽপি ন কৃতঃ| স তু যুষ্মন্মধ্যে ঽঘানি যতঃ শযতানস্তত্ৰৈৱ নিৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তৱ ক্রিযা মম গোচরাঃ, যত্র শযতানস্য সিংহাসনং তত্রৈৱ ৎৱং ৱসসি তদপি জানামি| ৎৱং মম নাম ধারযসি মদ্ভক্তেরস্ৱীকারস্ত্ৱযা ন কৃতো মম ৱিশ্ৱাস্যসাক্ষিণ আন্তিপাঃ সমযে ঽপি ন কৃতঃ| স তু যুষ্মন্মধ্যে ঽঘানি যতঃ শযতানস্তত্রৈৱ নিৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဝ ကြိယာ မမ ဂေါစရား, ယတြ ၑယတာနသျ သိံဟာသနံ တတြဲဝ တွံ ဝသသိ တဒပိ ဇာနာမိ၊ တွံ မမ နာမ ဓာရယသိ မဒ္ဘက္တေရသွီကာရသ္တွယာ န ကၖတော မမ ဝိၑွာသျသာက္ၐိဏ အာန္တိပါး သမယေ 'ပိ န ကၖတး၊ သ တု ယုၐ္မန္မဓျေ 'ဃာနိ ယတး ၑယတာနသ္တတြဲဝ နိဝသတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તવ ક્રિયા મમ ગોચરાઃ, યત્ર શયતાનસ્ય સિંહાસનં તત્રૈવ ત્વં વસસિ તદપિ જાનામિ| ત્વં મમ નામ ધારયસિ મદ્ભક્તેરસ્વીકારસ્ત્વયા ન કૃતો મમ વિશ્વાસ્યસાક્ષિણ આન્તિપાઃ સમયે ઽપિ ન કૃતઃ| સ તુ યુષ્મન્મધ્યે ઽઘાનિ યતઃ શયતાનસ્તત્રૈવ નિવસતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:13
27 अन्तरसन्दर्भाः  

तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।


तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।


तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।


तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।


अत्र स्थाने च ये लोकास्तव नाम्नि प्रार्थयन्ति तानपि बद्धुं स प्रधानयाजकेभ्यः शक्तिं प्राप्तवान्, इमां कथाम् अहम् अनेकेषां मुखेभ्यः श्रुतवान्।


सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।


यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।


हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।


यदि वयं तम् अनङ्गीकुर्म्मस्तर्हि सो ऽस्मानप्यनङ्गीकरिष्यति।


यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।


वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।


युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?


यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।


पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।


ये मानवा ईश्वरस्याज्ञा यीशौ विश्वासञ्च पालयन्ति तेषां पवित्रलोकानां सहिष्णुतयात्र प्रकाशितव्यं।


ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।


मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।


तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्,


पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्