Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অনন্তৰং বহুতোযানাং ৰৱ ইৱ গুৰুতৰস্তনিতস্য চ ৰৱ ইৱ একো ৰৱঃ স্ৱৰ্গাৎ মযাশ্ৰাৱি| মযা শ্ৰুতঃ স ৰৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অনন্তরং বহুতোযানাং রৱ ইৱ গুরুতরস্তনিতস্য চ রৱ ইৱ একো রৱঃ স্ৱর্গাৎ মযাশ্রাৱি| মযা শ্রুতঃ স রৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အနန္တရံ ဗဟုတောယာနာံ ရဝ ဣဝ ဂုရုတရသ္တနိတသျ စ ရဝ ဣဝ ဧကော ရဝး သွရ္ဂာတ် မယာၑြာဝိ၊ မယာ ၑြုတး သ ရဝေါ ဝီဏာဝါဒကာနာံ ဝီဏာဝါဒနသျ သဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અનન્તરં બહુતોયાનાં રવ ઇવ ગુરુતરસ્તનિતસ્ય ચ રવ ઇવ એકો રવઃ સ્વર્ગાત્ મયાશ્રાવિ| મયા શ્રુતઃ સ રવો વીણાવાદકાનાં વીણાવાદનસ્ય સદૃશઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:2
29 अन्तरसन्दर्भाः  

मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।


तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,


चरणौ वह्निकुण्डेतापितसुपित्तलसदृशौ रवश्च बहुतोयानां रवतुल्यः।


ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ।


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,


वल्लकीवादिनां शब्दं पुन र्न श्रोष्यते त्वयि। गाथाकानाञ्च शब्दो वा वंशीतूर्य्यादिवादिनां। शिल्पकर्म्मकरः को ऽपि पुन र्न द्रक्ष्यते त्वयि। पेषणीप्रस्तरध्वानः पुन र्न श्रोष्यते त्वयि।


पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।


अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।


प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्