Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः खङ्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্য পশোঃ সাক্ষাদ্ যেষাং চিত্ৰকৰ্ম্মণাং সাধনায সামৰ্থ্যং তস্মৈ দত্তং তৈঃ স পৃথিৱীনিৱাসিনো ভ্ৰামযতি, ৱিশেষতো যঃ পশুঃ খঙ্গেন ক্ষতযুক্তো ভূৎৱাপ্যজীৱৎ তস্য প্ৰতিমানিৰ্ম্মাণং পৃথিৱীনিৱাসিন আদিশতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্য পশোঃ সাক্ষাদ্ যেষাং চিত্রকর্ম্মণাং সাধনায সামর্থ্যং তস্মৈ দত্তং তৈঃ স পৃথিৱীনিৱাসিনো ভ্রামযতি, ৱিশেষতো যঃ পশুঃ খঙ্গেন ক্ষতযুক্তো ভূৎৱাপ্যজীৱৎ তস্য প্রতিমানির্ম্মাণং পৃথিৱীনিৱাসিন আদিশতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသျ ပၑေား သာက္ၐာဒ် ယေၐာံ စိတြကရ္မ္မဏာံ သာဓနာယ သာမရ္ထျံ တသ္မဲ ဒတ္တံ တဲး သ ပၖထိဝီနိဝါသိနော ဘြာမယတိ, ဝိၑေၐတော ယး ပၑုး ခင်္ဂေန က္ၐတယုက္တော ဘူတွာပျဇီဝတ် တသျ ပြတိမာနိရ္မ္မာဏံ ပၖထိဝီနိဝါသိန အာဒိၑတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તસ્ય પશોઃ સાક્ષાદ્ યેષાં ચિત્રકર્મ્મણાં સાધનાય સામર્થ્યં તસ્મૈ દત્તં તૈઃ સ પૃથિવીનિવાસિનો ભ્રામયતિ, વિશેષતો યઃ પશુઃ ખઙ્ગેન ક્ષતયુક્તો ભૂત્વાપ્યજીવત્ તસ્ય પ્રતિમાનિર્મ્માણં પૃથિવીનિવાસિન આદિશતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:14
29 अन्तरसन्दर्भाः  

यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।


अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि।


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।


तत्पश्चाद् तृतीयो दूत उपस्थायोच्चैरवदत्, यः कश्चित तं शशुं तस्य प्रतिमाञ्च प्रणमति स्वभाले स्वकरे वा कलङ्कं गृह्लाति च


वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,


अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।


ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।


दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।


ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।


तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।


त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्