Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 तस्य दक्षिणहस्ते सप्त तारा विद्यन्ते वक्त्राच्च तीक्ष्णो द्विधारः खङ्गो निर्गच्छति मुखमण्डलञ्च स्वतेजसा देदीप्यमानस्य सूर्य्यस्य सदृशं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তস্য দক্ষিণহস্তে সপ্ত তাৰা ৱিদ্যন্তে ৱক্ত্ৰাচ্চ তীক্ষ্ণো দ্ৱিধাৰঃ খঙ্গো নিৰ্গচ্ছতি মুখমণ্ডলঞ্চ স্ৱতেজসা দেদীপ্যমানস্য সূৰ্য্যস্য সদৃশং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তস্য দক্ষিণহস্তে সপ্ত তারা ৱিদ্যন্তে ৱক্ত্রাচ্চ তীক্ষ্ণো দ্ৱিধারঃ খঙ্গো নির্গচ্ছতি মুখমণ্ডলঞ্চ স্ৱতেজসা দেদীপ্যমানস্য সূর্য্যস্য সদৃশং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တသျ ဒက္ၐိဏဟသ္တေ သပ္တ တာရာ ဝိဒျန္တေ ဝက္တြာစ္စ တီက္ၐ္ဏော ဒွိဓာရး ခင်္ဂေါ နိရ္ဂစ္ဆတိ မုခမဏ္ဍလဉ္စ သွတေဇသာ ဒေဒီပျမာနသျ သူရျျသျ သဒၖၑံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તસ્ય દક્ષિણહસ્તે સપ્ત તારા વિદ્યન્તે વક્ત્રાચ્ચ તીક્ષ્ણો દ્વિધારઃ ખઙ્ગો નિર્ગચ્છતિ મુખમણ્ડલઞ્ચ સ્વતેજસા દેદીપ્યમાનસ્ય સૂર્ય્યસ્ય સદૃશં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:16
26 अन्तरसन्दर्भाः  

तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।


तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।


शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।


ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।


मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।


अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।


ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीटञ्च शिरस्यासीत्।


तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।


अवशिष्टाश्च तस्याश्वारूढस्य वक्त्रनिर्गतखङ्गेन हताः, तेषां क्रव्यैश्च पक्षिणः सर्व्वे तृप्तिं गताः।


इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते।


अपरं पर्गामस्थसमिते र्दूतं प्रतीदं लिख, यस्तीक्ष्णं द्विधारं खङ्गं धारयति स एव भाषते।


अतो हेतोस्त्वं मनः परिवर्त्तय न चेदहं त्वरया तव समीपमुपस्थाय मद्वक्तस्थखङ्गेन तैः सह योत्स्यामि।


अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्