Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যৎ প্ৰকাশিতং ৱাক্যম্ ঈশ্ৱৰঃ স্ৱদাসানাং নিকটং শীঘ্ৰমুপস্থাস্যন্তীনাং ঘটনানাং দৰ্শনাৰ্থং যীশুখ্ৰীষ্টে সমৰ্পিতৱান্ তৎ স স্ৱীযদূতং প্ৰেষ্য নিজসেৱকং যোহনং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যৎ প্রকাশিতং ৱাক্যম্ ঈশ্ৱরঃ স্ৱদাসানাং নিকটং শীঘ্রমুপস্থাস্যন্তীনাং ঘটনানাং দর্শনার্থং যীশুখ্রীষ্টে সমর্পিতৱান্ তৎ স স্ৱীযদূতং প্রেষ্য নিজসেৱকং যোহনং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယတ် ပြကာၑိတံ ဝါကျမ် ဤၑွရး သွဒါသာနာံ နိကဋံ ၑီဃြမုပသ္ထာသျန္တီနာံ ဃဋနာနာံ ဒရ္ၑနာရ္ထံ ယီၑုခြီၐ္ဋေ သမရ္ပိတဝါန် တတ် သ သွီယဒူတံ ပြေၐျ နိဇသေဝကံ ယောဟနံ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 યત્ પ્રકાશિતં વાક્યમ્ ઈશ્વરઃ સ્વદાસાનાં નિકટં શીઘ્રમુપસ્થાસ્યન્તીનાં ઘટનાનાં દર્શનાર્થં યીશુખ્રીષ્ટે સમર્પિતવાન્ તત્ સ સ્વીયદૂતં પ્રેષ્ય નિજસેવકં યોહનં જ્ઞાપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:1
30 अन्तरसन्दर्भाः  

यतो हेतोरहं स्वतः किमपि न कथयामि, किं किं मया कथयितव्यं किं समुपदेष्टव्यञ्च इति मत्प्रेरयिता पिता मामाज्ञापयत्।


अद्यारभ्य युष्मान् दासान् न वदिष्यामि यत् प्रभु र्यत् करोति दासस्तद् न जानाति; किन्तु पितुः समीपे यद्यद् अशृणवं तत् सर्व्वं यूष्मान् अज्ञापयम् तत्कारणाद् युष्मान् मित्राणि प्रोक्तवान्।


मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।


स यदपश्यदशृणोच्च तस्मिन्नेव साक्ष्यं ददाति तथापि प्रायशः कश्चित् तस्य साक्ष्यं न गृह्लाति;


युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।


पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,


अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।


अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।


अनन्तजीवनस्याशातो जाताया ईश्वरभक्ते र्योग्यस्य सत्यमतस्य यत् तत्वज्ञानं यश्च विश्वास ईश्वरस्याभिरुचितलोकै र्लभ्यते तदर्थं


अतो यद् भवति यच्चेतः परं भविष्यति त्वया दृष्टं तत् सर्व्वं लिख्यतां।


युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।


तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


स सुचेलकः पवित्रलोकानां पुण्यानि। ततः स माम् उक्तवान् त्वमिदं लिख मेषशावकस्य विवाहभोज्याय ये निमन्त्रितास्ते धन्या इति। पुनरपि माम् अवदत्, इमानीश्वरस्य सत्यानि वाक्यानि।


अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।


अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।


अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।


मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।


अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।


योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।


ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।


ततः परं मया दृष्टिपातं कृत्वा स्वर्गे मुक्तं द्वारम् एकं दृष्टं मया सहभाषमाणस्य च यस्य तूरीवाद्यतुल्यो रवः पूर्व्वं श्रुतः स माम् अवोचत् स्थानमेतद् आरोहय, इतः परं येन येन भवितव्यं तदहं त्वां दर्शयिष्ये।


स उपागत्य तस्य सिंहासनोपविष्टजनस्य दक्षिणकरात् तत् पत्रं गृहीतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्