Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 त्वममरेश्वरस्याभिषिक्तपुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱমমৰেশ্ৱৰস্যাভিষিক্তপুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱমমরেশ্ৱরস্যাভিষিক্তপুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွမမရေၑွရသျာဘိၐိက္တပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvamamarEzvarasyAbhiSiktaputraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 ત્વમમરેશ્વરસ્યાભિષિક્તપુત્રઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:16
38 अन्तरसन्दर्भाः  

तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।


तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,


किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।


किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता?


सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि।


किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।


मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति।


ततः शिमोन् पितरः प्रत्यवोचत् हे प्रभो कस्याभ्यर्णं गमिष्यामः?


अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।


हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।


इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?


ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।


सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।


पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।


मया सिल्वानेन तिमथिना चेश्वरस्य पुत्रो यो यीशुख्रीष्टो युष्मन्मध्ये घोषितः स तेन स्वीकृतः पुनरस्वीकृतश्च तन्नहि किन्तु स तस्य स्वीकारस्वरूपएव।


यतो ऽस्माभिः सेवितं ख्रीष्टस्य पत्रं यूयपेव, तच्च न मस्या किन्त्वमरस्येश्वरस्यात्मना लिखितं पाषाणपत्रेषु तन्नहि किन्तु क्रव्यमयेषु हृत्पत्रेषु लिखितमिति सुस्पष्टं।


ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।


यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं


यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।


यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।


अमरेश्वरस्य करयोः पतनं महाभयानकं।


किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः


हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।


तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?


यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।


अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।


यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति?


अनन्तरं सूर्य्योदयस्थानाद् उद्यन् अपर एको दूतो मया दृष्टः सोऽमरेश्वरस्य मुद्रां धारयति, येषु चर्तुषु दूतेषु पृथिवीसमुद्रयो र्हिंसनस्य भारो दत्तस्तान् स उच्चैरिदं अवदत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्