Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:44 - सत्यवेदः। Sanskrit NT in Devanagari

44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কথযামাস চ মূসাৱ্যৱস্থাযাং ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু গীতপুস্তকে চ মযি যানি সৰ্ৱ্ৱাণি ৱচনানি লিখিতানি তদনুৰূপাণি ঘটিষ্যন্তে যুষ্মাভিঃ সাৰ্দ্ধং স্থিৎৱাহং যদেতদ্ৱাক্যম্ অৱদং তদিদানীং প্ৰত্যক্ষমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কথযামাস চ মূসাৱ্যৱস্থাযাং ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু গীতপুস্তকে চ মযি যানি সর্ৱ্ৱাণি ৱচনানি লিখিতানি তদনুরূপাণি ঘটিষ্যন্তে যুষ্মাভিঃ সার্দ্ধং স্থিৎৱাহং যদেতদ্ৱাক্যম্ অৱদং তদিদানীং প্রত্যক্ষমভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကထယာမာသ စ မူသာဝျဝသ္ထာယာံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု ဂီတပုသ္တကေ စ မယိ ယာနိ သရွွာဏိ ဝစနာနိ လိခိတာနိ တဒနုရူပါဏိ ဃဋိၐျန္တေ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာဟံ ယဒေတဒွါကျမ် အဝဒံ တဒိဒါနီံ ပြတျက္ၐမဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 કથયામાસ ચ મૂસાવ્યવસ્થાયાં ભવિષ્યદ્વાદિનાં ગ્રન્થેષુ ગીતપુસ્તકે ચ મયિ યાનિ સર્વ્વાણિ વચનાનિ લિખિતાનિ તદનુરૂપાણિ ઘટિષ્યન્તે યુષ્માભિઃ સાર્દ્ધં સ્થિત્વાહં યદેતદ્વાક્યમ્ અવદં તદિદાનીં પ્રત્યક્ષમભૂત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:44
88 अन्तरसन्दर्भाः  

इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।


अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।


तथा सतीत्थं घटिष्यते धर्म्मपुस्तकस्य यदिदं वाक्यं तत् कथं सिध्येत्?


किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।


अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।


यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।


यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।


ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;


स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।


कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।


अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;


धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।


यदि यूयं तस्मिन् व्यश्वसिष्यत तर्हि मय्यपि व्यश्वसिष्यत, यत् स मयि लिखितवान्।


इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।


अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥


परलोके यतो हेतोस्त्वं मां नैव हि त्यक्ष्यसि। स्वकीयं पुण्यवन्तं त्वं क्षयितुं नैव दास्यसि। एवं जीवनमार्गं त्वं मामेव दर्शयिष्यसि।


किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।


प्रभुः परमेश्वरो युष्माकं भ्रातृगणस्य मध्ये मादृशम् एकं भविष्यद्वक्तारम् उत्पादयिष्यति तस्य कथायां यूयं मनो निधास्यथ, यो जन इस्रायेलः सन्तानेभ्य एनां कथां कथयामास स एष मूसाः।


व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।


मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।


शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,


इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।


विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्