Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 মম মেষা মম শব্দং শৃণ্ৱন্তি তানহং জানামি তে চ মম পশ্চাদ্ গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 মম মেষা মম শব্দং শৃণ্ৱন্তি তানহং জানামি তে চ মম পশ্চাদ্ গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 မမ မေၐာ မမ ၑဗ္ဒံ ၑၖဏွန္တိ တာနဟံ ဇာနာမိ တေ စ မမ ပၑ္စာဒ် ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 મમ મેષા મમ શબ્દં શૃણ્વન્તિ તાનહં જાનામિ તે ચ મમ પશ્ચાદ્ ગચ્છન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:27
26 अन्तरसन्दर्भाः  

अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।


एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।


किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।


तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।


तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।


अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।


किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।


अपरं स सर्व्वानुवाच, कश्चिद् यदि मम पश्चाद् गन्तुं वाञ्छति तर्हि स स्वं दाम्यतु, दिने दिने क्रुशं गृहीत्वा च मम पश्चादागच्छतु।


अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,


अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।


मया न प्रविश्य य आगच्छन् ते स्तेना दस्यवश्च किन्तु मेषास्तेषां कथा नाशृण्वन्।


कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।


स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ।


अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ।


किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,


किन्तु य ईश्वरे प्रीयते स ईश्वरेणापि ज्ञायते।


इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?


तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥


अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।


इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।


पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्