Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সা প্ৰত্যাশাস্মাকং মনোনৌকাযা অচলো লঙ্গৰো ভূৎৱা ৱিচ্ছেদকৱস্ত্ৰস্যাভ্যন্তৰং প্ৰৱিষ্টা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সা প্রত্যাশাস্মাকং মনোনৌকাযা অচলো লঙ্গরো ভূৎৱা ৱিচ্ছেদকৱস্ত্রস্যাভ্যন্তরং প্রৱিষ্টা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သာ ပြတျာၑာသ္မာကံ မနောနော်ကာယာ အစလော လင်္ဂရော ဘူတွာ ဝိစ္ဆေဒကဝသ္တြသျာဘျန္တရံ ပြဝိၐ္ဋာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 સા પ્રત્યાશાસ્માકં મનોનૌકાયા અચલો લઙ્ગરો ભૂત્વા વિચ્છેદકવસ્ત્રસ્યાભ્યન્તરં પ્રવિષ્ટા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:19
33 अन्तरसन्दर्भाः  

ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


चेत् पाषाणे लगतीति भयात् पोतस्य पश्चाद्भागतश्चतुरो लङ्गरान् निक्षिप्य दिवाकरम् अपेक्ष्य सर्व्वे स्थितवन्तः।


तथा कर्णबन्धनं मोचयित्वा प्रधानं वातवसनम् उत्तोल्य तीरसमीपं गतवन्तः।


अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।


त्वदीयस्तादृशो वंशो जनिष्यते यदिदं वाक्यं प्रतिश्रुतं तदनुसाराद् इब्राहीम् बहुदेशीयलोकानाम् आदिपुरुषो यद् भवति तदर्थं सोऽनपेक्षितव्यमप्यपेक्षमाणो विश्वासं कृतवान्।


धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,


इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


स च ख्रीष्टेन यीशुनास्मान् तेन सार्द्धम् उत्थापितवान् स्वर्ग उपवेशितवांश्च।


यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।


यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।


तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥


अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।


तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्,


किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।


अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्