Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতো হেতোঃ স যথা কৃপাৱান্ প্ৰজানাং পাপশোধনাৰ্থম্ ঈশ্ৱৰোদ্দেশ্যৱিষযে ৱিশ্ৱাস্যো মহাযাজকো ভৱেৎ তদৰ্থং সৰ্ৱ্ৱৱিষযে স্ৱভ্ৰাতৃণাং সদৃশীভৱনং তস্যোচিতম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতো হেতোঃ স যথা কৃপাৱান্ প্রজানাং পাপশোধনার্থম্ ঈশ্ৱরোদ্দেশ্যৱিষযে ৱিশ্ৱাস্যো মহাযাজকো ভৱেৎ তদর্থং সর্ৱ্ৱৱিষযে স্ৱভ্রাতৃণাং সদৃশীভৱনং তস্যোচিতম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတော ဟေတေား သ ယထာ ကၖပါဝါန် ပြဇာနာံ ပါပၑောဓနာရ္ထမ် ဤၑွရောဒ္ဒေၑျဝိၐယေ ဝိၑွာသျော မဟာယာဇကော ဘဝေတ် တဒရ္ထံ သရွွဝိၐယေ သွဘြာတၖဏာံ သဒၖၑီဘဝနံ တသျောစိတမ် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અતો હેતોઃ સ યથા કૃપાવાન્ પ્રજાનાં પાપશોધનાર્થમ્ ઈશ્વરોદ્દેશ્યવિષયે વિશ્વાસ્યો મહાયાજકો ભવેત્ તદર્થં સર્વ્વવિષયે સ્વભ્રાતૃણાં સદૃશીભવનં તસ્યોચિતમ્ આસીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:17
37 अन्तरसन्दर्भाः  

ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते।


फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।


स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।


पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।


अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।


यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।


तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्


स दूतानाम् उपकारी न भवति किन्त्विब्राहीमो वंशस्यैवोपकारी भवती।


हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।


मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।


मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।


अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।


यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।


तस्मात् स मल्कीषेदकः श्रेणीभुक्तो महायाजक ईश्वरेणाख्यातः।


स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।


एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्।


तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।


अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।


यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव।


कथ्यमानानां वाक्यानां सारोऽयम् अस्माकम् एतादृश एको महायाजकोऽस्ति यः स्वर्गे महामहिम्नः सिंहासनस्य दक्षिणपार्श्वो समुपविष्टवान्


यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।


अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्