Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰং কতিপযলোকা যথা কুৰ্ৱ্ৱন্তি তথাস্মাভিঃ সভাকৰণং ন পৰিত্যক্তৱ্যং পৰস্পৰম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তৰোত্তৰং নিকটৱৰ্ত্তি ভৱতীতি যুষ্মাভি ৰ্দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরং কতিপযলোকা যথা কুর্ৱ্ৱন্তি তথাস্মাভিঃ সভাকরণং ন পরিত্যক্তৱ্যং পরস্পরম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তরোত্তরং নিকটৱর্ত্তি ভৱতীতি যুষ্মাভি র্দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရံ ကတိပယလောကာ ယထာ ကုရွွန္တိ တထာသ္မာဘိး သဘာကရဏံ န ပရိတျက္တဝျံ ပရသ္ပရမ် ဥပဒေၐ္ဋဝျဉ္စ ယတသ္တတ် မဟာဒိနမ် ဥတ္တရောတ္တရံ နိကဋဝရ္တ္တိ ဘဝတီတိ ယုၐ္မာဘိ ရ္ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અપરં કતિપયલોકા યથા કુર્વ્વન્તિ તથાસ્માભિઃ સભાકરણં ન પરિત્યક્તવ્યં પરસ્પરમ્ ઉપદેષ્ટવ્યઞ્ચ યતસ્તત્ મહાદિનમ્ ઉત્તરોત્તરં નિકટવર્ત્તિ ભવતીતિ યુષ્માભિ ર્દૃશ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:25
32 अन्तरसन्दर्भाः  

युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।


यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।


यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।


यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती।


अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।


प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।


सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।


तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।


एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि;


समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति?


किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।


तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।


अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते ऽस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन


युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते।


अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।


येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।


हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।


किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।


यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।


सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।


अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते


अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं।


केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।


एते लोकाः स्वान् पृथक् कुर्व्वन्तः सांसारिका आत्महीनाश्च सन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्