Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সৎকৰ্ম্মকৰণেঽস্মাভিৰশ্ৰান্তৈ ৰ্ভৱিতৱ্যং যতোঽক্লান্তৌস্তিষ্ঠদ্ভিৰস্মাভিৰুপযুক্তসমযে তৎ ফলানি লপ্স্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সৎকর্ম্মকরণেঽস্মাভিরশ্রান্তৈ র্ভৱিতৱ্যং যতোঽক্লান্তৌস্তিষ্ঠদ্ভিরস্মাভিরুপযুক্তসমযে তৎ ফলানি লপ্স্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သတ္ကရ္မ္မကရဏေ'သ္မာဘိရၑြာန္တဲ ရ္ဘဝိတဝျံ ယတော'က္လာန္တော်သ္တိၐ္ဌဒ္ဘိရသ္မာဘိရုပယုက္တသမယေ တတ် ဖလာနိ လပ္သျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 સત્કર્મ્મકરણેઽસ્માભિરશ્રાન્તૈ ર્ભવિતવ્યં યતોઽક્લાન્તૌસ્તિષ્ઠદ્ભિરસ્માભિરુપયુક્તસમયે તત્ ફલાનિ લપ્સ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:9
42 अन्तरसन्दर्भाः  

मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।


किन्तु यः कश्चित् शेषं यावद् धैर्य्यमाश्रयते, सएव परित्रायिष्यते।


यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार।


तदानीं यीशुः शिष्यैः साकम् उत्थाय तस्य पश्चाद् वव्राज।


तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।


अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।


वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,


ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।


अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।


अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।


अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।


यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।


तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन।


यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।


वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।


हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते।


इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।


ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।


अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।


अपरं त्वं तितिक्षां विदधासि मम नामार्थं बहु सोढवानसि तथापि न पर्य्यक्लाम्यस्तदपि जानामि।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्