Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিঞ্চ য ঈশ্ৱৰো মাতৃগৰ্ভস্থং মাং পৃথক্ কৃৎৱা স্ৱীযানুগ্ৰহেণাহূতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিঞ্চ য ঈশ্ৱরো মাতৃগর্ভস্থং মাং পৃথক্ কৃৎৱা স্ৱীযানুগ্রহেণাহূতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိဉ္စ ယ ဤၑွရော မာတၖဂရ္ဘသ္ထံ မာံ ပၖထက် ကၖတွာ သွီယာနုဂြဟေဏာဟူတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિઞ્ચ ય ઈશ્વરો માતૃગર્ભસ્થં માં પૃથક્ કૃત્વા સ્વીયાનુગ્રહેણાહૂતવાન્

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:15
31 अन्तरसन्दर्भाः  

हे पितः, इत्थं भवेत् यत इदं त्वदृष्टावुत्तमं।


तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।


ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः


अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति


अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।


अपरञ्च तेन ये नियुक्तास्त आहूता अपि ये च तेनाहूतास्ते सपुण्यीकृताः, ये च तेन सपुण्यीकृतास्ते विभवयुक्ताः।


अस्मानिव तान्याह्वयति तत्र तव किं?


यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते


ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।


किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते।


य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं


ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।


यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।


स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा


यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च


सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,


क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्