Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱসমযে সৰ্ৱ্ৱযাচনেন সৰ্ৱ্ৱপ্ৰাৰ্থনেন চাত্মনা প্ৰাৰ্থনাং কুৰুধ্ৱং তদৰ্থং দৃঢাকাঙ্ক্ষযা জাগ্ৰতঃ সৰ্ৱ্ৱেষাং পৱিত্ৰলোকানাং কৃতে সদা প্ৰাৰ্থনাং কুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱসমযে সর্ৱ্ৱযাচনেন সর্ৱ্ৱপ্রার্থনেন চাত্মনা প্রার্থনাং কুরুধ্ৱং তদর্থং দৃঢাকাঙ্ক্ষযা জাগ্রতঃ সর্ৱ্ৱেষাং পৱিত্রলোকানাং কৃতে সদা প্রার্থনাং কুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွသမယေ သရွွယာစနေန သရွွပြာရ္ထနေန စာတ္မနာ ပြာရ္ထနာံ ကုရုဓွံ တဒရ္ထံ ဒၖဎာကာင်္က္ၐယာ ဇာဂြတး သရွွေၐာံ ပဝိတြလောကာနာံ ကၖတေ သဒါ ပြာရ္ထနာံ ကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સર્વ્વસમયે સર્વ્વયાચનેન સર્વ્વપ્રાર્થનેન ચાત્મના પ્રાર્થનાં કુરુધ્વં તદર્થં દૃઢાકાઙ્ક્ષયા જાગ્રતઃ સર્વ્વેષાં પવિત્રલોકાનાં કૃતે સદા પ્રાર્થનાં કુરુધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:18
51 अन्तरसन्दर्भाः  

युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवासौ विनैतादृशो भूतो न त्याज्येत।


परीक्षायां न पतितुं जागृत प्रार्थयध्वञ्च; आत्मा समुद्यतोस्ति, किन्तु वपु र्दुर्ब्बलं।


अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;


परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।


यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।


कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।


नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।


लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।


पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।


स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।


किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।


किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।


अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।


यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।


यूयं सन्ताना अभवत तत्कारणाद् ईश्वरः स्वपुत्रस्यात्मानां युष्माकम् अन्तःकरणानि प्रहितवान् स चात्मा पितः पितरित्याह्वानं कारयति।


युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि।


यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ।


इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,


सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,


अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां


यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्


यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।


ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा


वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।


यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।


निरन्तरं प्रार्थनां कुरुध्वं।


मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,


अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।


प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।


स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च


सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।


किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्