Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যুষ্মান্ অহং প্ৰভুনেদং ব্ৰৱীম্যাদিশামি চ, অন্যে ভিন্নজাতীযা ইৱ যূযং পূন ৰ্মাচৰত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যুষ্মান্ অহং প্রভুনেদং ব্রৱীম্যাদিশামি চ, অন্যে ভিন্নজাতীযা ইৱ যূযং পূন র্মাচরত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယုၐ္မာန် အဟံ ပြဘုနေဒံ ဗြဝီမျာဒိၑာမိ စ, အနျေ ဘိန္နဇာတီယာ ဣဝ ယူယံ ပူန ရ္မာစရတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યુષ્માન્ અહં પ્રભુનેદં બ્રવીમ્યાદિશામિ ચ, અન્યે ભિન્નજાતીયા ઇવ યૂયં પૂન ર્માચરત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:17
35 अन्तरसन्दर्भाः  

ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय।


हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।


सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।


एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।


यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।


अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।


ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।


हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।


अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।


अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति।


अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।


सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा


तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,


अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन्


कोऽपि युष्मान् विनयवाक्येन यन्न वञ्चयेत् तदर्थम् एतानि मया कथ्यन्ते।


एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।


अहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय।


अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि।


ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।


यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य


ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्