Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু প্ৰভুৰকথযৎ, যাহি ভিন্নদেশীযলোকানাং ভূপতীনাম্ ইস্ৰাযেল্লোকানাঞ্চ নিকটে মম নাম প্ৰচাৰযিতুং স জনো মম মনোনীতপাত্ৰমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু প্রভুরকথযৎ, যাহি ভিন্নদেশীযলোকানাং ভূপতীনাম্ ইস্রাযেল্লোকানাঞ্চ নিকটে মম নাম প্রচারযিতুং স জনো মম মনোনীতপাত্রমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ပြဘုရကထယတ်, ယာဟိ ဘိန္နဒေၑီယလောကာနာံ ဘူပတီနာမ် ဣသြာယေလ္လောကာနာဉ္စ နိကဋေ မမ နာမ ပြစာရယိတုံ သ ဇနော မမ မနောနီတပါတြမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ પ્રભુરકથયત્, યાહિ ભિન્નદેશીયલોકાનાં ભૂપતીનામ્ ઇસ્રાયેલ્લોકાનાઞ્ચ નિકટે મમ નામ પ્રચારયિતું સ જનો મમ મનોનીતપાત્રમાસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:15
38 अन्तरसन्दर्भाः  

यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।


यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।


अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।


ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।


ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।


तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि।


तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।


तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।


हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।


दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।


अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।


ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः


अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति


अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।


मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं


अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।


यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।


ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्