Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ স মহ্যং কথিতৱান্ যথা ৎৱম্ ঈশ্ৱৰস্যাভিপ্ৰাযং ৱেৎসি তস্য শুদ্ধসত্ত্ৱজনস্য দৰ্শনং প্ৰাপ্য তস্য শ্ৰীমুখস্য ৱাক্যং শৃণোষি তন্নিমিত্তম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰস্ত্ৱাং মনোনীতং কৃতৱানং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ স মহ্যং কথিতৱান্ যথা ৎৱম্ ঈশ্ৱরস্যাভিপ্রাযং ৱেৎসি তস্য শুদ্ধসত্ত্ৱজনস্য দর্শনং প্রাপ্য তস্য শ্রীমুখস্য ৱাক্যং শৃণোষি তন্নিমিত্তম্ অস্মাকং পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরস্ত্ৱাং মনোনীতং কৃতৱানং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး သ မဟျံ ကထိတဝါန် ယထာ တွမ် ဤၑွရသျာဘိပြာယံ ဝေတ္သိ တသျ ၑုဒ္ဓသတ္တွဇနသျ ဒရ္ၑနံ ပြာပျ တသျ ၑြီမုခသျ ဝါကျံ ၑၖဏောၐိ တန္နိမိတ္တမ် အသ္မာကံ ပူရွွပုရုၐာဏာမ် ဤၑွရသ္တွာံ မနောနီတံ ကၖတဝါနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vEtsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNOSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manOnItaM kRtavAnaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તતઃ સ મહ્યં કથિતવાન્ યથા ત્વમ્ ઈશ્વરસ્યાભિપ્રાયં વેત્સિ તસ્ય શુદ્ધસત્ત્વજનસ્ય દર્શનં પ્રાપ્ય તસ્ય શ્રીમુખસ્ય વાક્યં શૃણોષિ તન્નિમિત્તમ્ અસ્માકં પૂર્વ્વપુરુષાણામ્ ઈશ્વરસ્ત્વાં મનોનીતં કૃતવાનં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:14
33 अन्तरसन्दर्भाः  

यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्।


यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।


त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुनञ्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवकञ्च कर्त्तुम् दर्शनम् अदाम्।


यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य


युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।


ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः


प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।


यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,


सर्व्वशेषेऽकालजाततुल्यो योऽहं, सोऽहमपि तस्य दर्शनं प्राप्तवान्।


अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?


यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।


अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।


किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्


ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।


अनन्तजीवनस्याशातो जाताया ईश्वरभक्ते र्योग्यस्य सत्यमतस्य यत् तत्वज्ञानं यश्च विश्वास ईश्वरस्याभिरुचितलोकै र्लभ्यते तदर्थं


स किमपि पापं न कृतवान् तस्य वदने कापि छलस्य कथा नासीत्।


हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्