Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স্ৱানুগতলোকানাং তীমথিযেৰাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্ৰতি প্ৰহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স্ৱানুগতলোকানাং তীমথিযেরাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্রতি প্রহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သွာနုဂတလောကာနာံ တီမထိယေရာသ္တော် ဒွေါ် ဇနော် မာကိဒနိယာဒေၑံ ပြတိ ပြဟိတျ သွယမ် အာၑိယာဒေၑေ ကတိပယဒိနာနိ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 સ્વાનુગતલોકાનાં તીમથિયેરાસ્તૌ દ્વૌ જનૌ માકિદનિયાદેશં પ્રતિ પ્રહિત્ય સ્વયમ્ આશિયાદેશે કતિપયદિનાનિ સ્થિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:22
18 अन्तरसन्दर्भाः  

ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।


पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।


पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।


सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।


इत्थं कलहे निवृत्ते सति पौलः शिष्यगणम् आहूय विसर्जनं प्राप्य माकिदनियादेशं प्रस्थितवान्।


किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।


तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।


युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्।


यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।


सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।


हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि।


प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।


यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।


इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्