Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 গাল্লিযনামা কশ্চিদ্ আখাযাদেশস্য প্ৰাড্ৱিৱাকঃ সমভৱৎ, ততো যিহূদীযা একৱাক্যাঃ সন্তঃ পৌলম্ আক্ৰম্য ৱিচাৰস্থানং নীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 গাল্লিযনামা কশ্চিদ্ আখাযাদেশস্য প্রাড্ৱিৱাকঃ সমভৱৎ, ততো যিহূদীযা একৱাক্যাঃ সন্তঃ পৌলম্ আক্রম্য ৱিচারস্থানং নীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဂါလ္လိယနာမာ ကၑ္စိဒ် အာခါယာဒေၑသျ ပြာဍွိဝါကး သမဘဝတ်, တတော ယိဟူဒီယာ ဧကဝါကျား သန္တး ပေါ်လမ် အာကြမျ ဝိစာရသ္ထာနံ နီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 ગાલ્લિયનામા કશ્ચિદ્ આખાયાદેશસ્ય પ્રાડ્વિવાકઃ સમભવત્, તતો યિહૂદીયા એકવાક્યાઃ સન્તઃ પૌલમ્ આક્રમ્ય વિચારસ્થાનં નીત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:12
27 अन्तरसन्दर्भाः  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।


एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।


किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।


तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।


किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।


आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।


किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।


किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।


किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।


तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्।


पश्चात् स आखायादेशं गन्तुं मतिं कृतवान्, तदा तत्रत्यः शिष्यगणो यथा तं गृह्लाति तदर्थं भ्रातृगणेन समाश्वस्य पत्रे लिखिते सति, आपल्लास्तत्रोपस्थितः सन् अनुग्रहेण प्रत्ययिनां बहूपकारान् अकरोत्,


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।


यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।


अपरञ्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं ज्ञापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं ज्ञापयध्वं।


हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।


ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।


ख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते।


बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च


यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।


हे भ्रातरः, ख्रीष्टाश्रितवत्य ईश्वरस्य याः समित्यो यिहूदादेशे सन्ति यूयं तासाम् अनुकारिणोऽभवत, तद्भुक्ता लोकाश्च यद्वद् यिहूदिलोकेभ्यस्तद्वद् यूयमपि स्वजातीयलोकेभ्यो दुःखम् अलभध्वं।


अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।


धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्