Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যিৰূশালম্নিৱাসিনস্তেষাম্ অধিপতযশ্চ তস্য যীশোঃ পৰিচযং ন প্ৰাপ্য প্ৰতিৱিশ্ৰামৱাৰং পঠ্যমানানাং ভৱিষ্যদ্ৱাদিকথানাম্ অভিপ্ৰাযম্ অবুদ্ধ্ৱা চ তস্য ৱধেন তাঃ কথাঃ সফলা অকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যিরূশালম্নিৱাসিনস্তেষাম্ অধিপতযশ্চ তস্য যীশোঃ পরিচযং ন প্রাপ্য প্রতিৱিশ্রামৱারং পঠ্যমানানাং ভৱিষ্যদ্ৱাদিকথানাম্ অভিপ্রাযম্ অবুদ্ধ্ৱা চ তস্য ৱধেন তাঃ কথাঃ সফলা অকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယိရူၑာလမ္နိဝါသိနသ္တေၐာမ် အဓိပတယၑ္စ တသျ ယီၑေား ပရိစယံ န ပြာပျ ပြတိဝိၑြာမဝါရံ ပဌျမာနာနာံ ဘဝိၐျဒွါဒိကထာနာမ် အဘိပြာယမ် အဗုဒ္ဓွာ စ တသျ ဝဓေန တား ကထား သဖလာ အကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યિરૂશાલમ્નિવાસિનસ્તેષામ્ અધિપતયશ્ચ તસ્ય યીશોઃ પરિચયં ન પ્રાપ્ય પ્રતિવિશ્રામવારં પઠ્યમાનાનાં ભવિષ્યદ્વાદિકથાનામ્ અભિપ્રાયમ્ અબુદ્ધ્વા ચ તસ્ય વધેન તાઃ કથાઃ સફલા અકુર્વ્વન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:27
25 अन्तरसन्दर्भाः  

ततो यीशुः प्रत्यवादीत्, यूयं धर्म्मपुस्तकम् ईश्वरीयां शक्तिञ्च न विज्ञाय भ्रान्तिमन्तः।


ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।


पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,


तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;


किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति।


ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।


धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।


ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।


यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवारञ्च भजनभवने तस्याः पाठो भवति।


तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।


हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।


हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;


इहलोकस्याधिपतीनां केनापि तत् ज्ञानं न लब्धं, लब्धे सति ते प्रभावविशिष्टं प्रभुं क्रुशे नाहनिष्यन्।


तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।


यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।


यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्